कृष्णाय वासुदेवाय हरये परमात्मने |
प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः ||
करचरणकृतंवाक् कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम |
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्री महादेव शंभो ||
कायेन वाचा मनसेन्द्रियैर्वा
बुध्यात्मना वा प्रकृतेः स्वभावात् |
करोमि यदयद् सकलं परस्मै
नारायणायेति समर्पयामि ||
त्वमेव माता च पिता त्वमेव
त्वमेव बंधुश्च सखा त्वमेव |
त्वमेव विद्या द्रविणम् त्वमेव
त्वमेव सर्वम मम देव देव ||
Recent Comments