ચર્પટપન્જરિકા સ્તોત્ર

भजगोविन्दं भजगोविन्दं भजगोविन्दं मूढमते |

संप्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ्करणे ||१||

दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः |

कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ||२||

….. भजगोविन्दं

अग्रे वह्निः पृष्ठेभानुः रात्रौ चिबुकसमर्पितजानुः |

करतलभिक्षा तरुतलवासः तदपि न मुञ्चत्याशापाशः ||३||

….. भजगोविन्दं

यावद्वित्तोपार्जन सक्तः स्तावन्निज परिवारो रक्तः |

पश्चाद्धावति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ||४||

….. भजगोविन्दं

जटिलो मुण्डी लुञ्चितकेशः काषायाम्बरबहुकृतवेषः |

पश्यन्नपि चन पश्यति लोकः उदरनिमित्तं बहुकृत शोकः ||५||

….. भजगोविन्दं

भगवद्गीता किञ्चिदधीता गङ्गा जललव कणिकापीता |

सकृदपि यस्य मुरारि समर्चा तस्य यमः किं कुरुते चर्चां ||६||

….. भजगोविन्दं

अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् |

वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ||७||

….. भजगोविन्दं

बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः |

वृद्धस्तावच्चिन्तामग्नः  परे ब्रह्मणि कोऽपि न लग्नः ||८||

….. भजगोविन्दं

पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् |

इह संसारे खलुदुस्तारे कृपयाऽपारे पाहि मुरारे ||९||

….. भजगोविन्दं

पुनरपिरजनी पुनरपिदिवसः पुनरपिपक्षः पुनरपिमासः |

पुनरप्ययनं पुनरपिवर्षम तदपि न मुंचत्यायाशामर्षम् ||१०||

….. भजगोविन्दं

वयसिगते कः कामविकारः शुष्के नीरे कः कासारः |

नष्टे द्रव्ये कः परिवारः ज्ञाते तत्त्वे कः संसारः ||११||

….. भजगोविन्दं

नारीस्तनभर नाभि निवेशं मिथ्यामाया मोहावेशम् |

एतन्मांसवसादि विकारं मनसि विचिन्त्य वारंवारम् ||१२||

….. भजगोविन्दं

कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः |

इति परिभावय सर्वमसारम् विश्वं त्यक्त्वा स्वप्न विचारम् ||१३||

….. भजगोविन्दं

गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रम् |

नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तम् ||१४||

….. भजगोविन्दं

यावज्जीवो निवसति देहे कुशलं तावत्पृच्छति गेहे |

गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ||१५||

….. भजगोविन्दं

सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः |

यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ||१६||

….. भजगोविन्दं

रथ्या चर्पट विरचित कन्थः पुण्यापुण्य विवर्जित पन्थः |

नाहं नत्वा नायं लोका स्तदपि किमर्थं क्रियते शोकः ||१७||

….. भजगोविन्दं

कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् |

ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ||१८||

….. भजगोविन्दं

योगरतोवाभोगरतोवा सङ्गरतोवा सङ्गवीहिनः |

यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ||१९||

….. भजगोविन्दं

मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् |

यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ||२०||

….. भजगोविन्दं

मूढः कश्चन वैयाकरणो डुकृञ्करणाध्ययन धुरिणः |

श्रीमच्छम्कर भगवच्छिष्यै बोधित आसिच्छोधितकरणः ||२१||

….. भजगोविन्दं

भजगोविन्दं भजगोविन्दं भजगोविन्दं मूढमते |

नामस्मरणादन्यमुपायं नहि पश्यामो भवतरणे ||२२||

….. भजगोविन्दं

Leave a comment

Feedback

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Blog at WordPress.com.